May 8, 2024

सूर्य कवच | Surya Kavach

II अथश्रीसूर्यकवचस्तोत्रम् II

श्री गणेशाय नमः I

याज्ञवल्क्य उवाच I

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् I

शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् II १ II

दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् I

ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् II २ II

शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः I

नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः II ३ II

घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः I

जिह्वां मे मानदः पातु कंठं मे सुरवंदितः II ४ II

स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः I

पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः II ५ II

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके I

दधाति यः करे तस्य वशगाः सर्वसिद्धयः II ६ II

सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः I

स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति II ७ II

॥ इति श्री माद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं संपूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *